|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.140. अध्यायः 140
Mahabharata - Adi Parva - Chapter Topics
कृपद्रोणाश्वत्थामाचार्याणामुत्पत्तिः॥ 1 ॥ द्रोणाचार्यस्य परशुरामादस्त्रलाभः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-140-0x(822)(6270)
कृपस्यापि मम ब्रह्मन्संभवं वक्तुमर्हसि।
शरस्तम्बात्कथं जज्ञे कथं वाऽस्त्राण्यवाप्तवान्॥ 1-140-1(6271)
वैशम्पायन उवाच। 1-140-2x(823)
महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः।
पुत्रः किल महाराज जातः सहशरैर्विभो॥ 1-140-2(6272)
न तस्य वेदाध्ययने तथा बुद्धिरजायत।
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप॥ 1-140-3(6273)
अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः।
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह॥ 1-140-4(6274)
धनुर्वेदपरत्वाच्च तपसा विपुलेन च।
भृशं सन्तापयामास देवराजं स गौतमः॥ 1-140-5(6275)
ततो जालवतीं नाम देवकन्यां सुरेश्वरः।
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव॥ 1-140-6(6276)
सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः।
धनुर्बाणधरं बाला लोभयामास गौतमम्॥ 1-140-7(6277)
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने।
लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्॥ 1-140-8(6278)
धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि।
वेपथुश्चास्य सहसा शरीरे समजायत॥ 1-140-9(6279)
स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात्।
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह॥ 1-140-10(6280)
यस्तस्य सहसा राजन्विकारः समदृश्यत।
तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत॥ 1-140-11(6281)
धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च।
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः॥ 1-140-12(6282)
जगाम रेतस्तत्तस्य शरस्तम्बे पपात च।
शरस्तम्बे च पतितं द्विधा तदभवन्नृप॥ 1-140-13(6283)
तस्याथ मिथुं जज्ञे गौतमस्य शरद्वतः।
`महर्षेर्गौतमस्यास्य ह्याश्रमस्य समीपतः॥'
मृगयां चरतो राज्ञः शान्तनोस्तु यदृच्छया॥ 1-140-14(6284)
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत।
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च॥ 1-140-15(6285)
ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह।
स राज्ञे दर्शयामास मिथुनं सशरं धनुः॥ 1-140-16(6286)
स तदादाय मिथुनं राजा च कृपयान्वितः।
आजगाम गृहानेव मम पुत्राविति ब्रुवन्॥ 1-140-17(6287)
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्।
प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्॥ 1-140-18(6288)
कृपया यन्मया बालाविमौ संवर्धिताविति।
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः।
`तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत्॥' 1-140-19(6289)
पितापि गौतमस्तत्र तपसा ताववन्दित।
आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा॥ 1-140-20(6290)
`कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत्।'
चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च॥ 1-140-21(6291)
निशिलेनास्य तत्सर्वं गुह्यमाख्यातवान्पिता।
सोऽचिरेणैव कालेन परमाचार्यतां गतः॥ 1-140-22(6292)
कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन्।
पौत्रान्परिसमाधाय कृपमाराधयत्तदा॥ 1-140-23(6293)
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः।
धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः॥ 1-140-24(6294)
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः।
`कृपमाचार्यमासाद्य परमास्त्रज्ञतां गतः।' 1-140-25(6295)
वैशम्पायन उवाच।
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया॥ 1-140-25x(824)
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान्।
नाल्पधीर्नामहाभागस्तथा नानस्त्रकोविदः॥ 1-140-26(6296)
नादेवसत्वो विनयेत्कुरूनस्त्रे महावलान्।
इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः॥ 1-140-27(6297)
द्रोणाय वेदविदुषे भारद्वाजाय धमते।
पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ॥ 1-140-28(6298)
शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना।
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः॥ 1-140-29(6299)
प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः।
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः॥ 1-140-30(6300)
तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः।
बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः॥ 1-140-31(6301)
जनमेजय उवाच। 1-140-32x(825)
कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान्।
कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान्॥ 1-140-32(6302)
कथं चास्य सुतो जातः सोश्वत्थामाऽस्त्रवित्तमः।
एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय॥ 1-140-33(6303)
वैशम्पायन उवाच। 1-140-34x(826)
गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः।
भरद्वाज इति ख्यातः सततं संशितव्रतः॥ 1-140-34(6304)
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्।
महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा॥ 1-140-35(6305)
ददर्शाप्सरसं साक्षाद्धृताचीमाप्लुतामृषिः।
रूपयौवनसंपन्नां मददृप्तां मदालसाम्॥ 1-140-36(6306)
तस्या वायुर्नदीतीर वसनं पर्यवर्तत।
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः॥ 1-140-37(6307)
तत्र संसक्तमनसो भरद्वाजस्य धीमतः।
हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे॥ 1-140-38(6308)
ततः समभवद्द्रोणः कलशे तस्य धीमतः।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः॥ 1-140-39(6309)
अग्नेरस्त्रमुपादाय यदृषिर्वेद काश्यपः।
अध्यगच्छद्भरद्वाजस्तदस्त्रं देवकार्यतः॥ 1-140-40(6310)
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान्।
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः॥ 1-140-41(6311)
`कनिष्ठजातं स मुनिर्भ्राता भ्रातरमन्तिके।
अग्निवेश्यस्तथा द्रोणं तदा भरतसत्तम।'
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्॥ 1-140-42(6312)
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः।
तस्यापि द्रुपदो नाम तथा समभवत्सुतः॥ 1-140-43(6313)
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः॥ 1-140-44(6314)
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्।
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः॥ 1-140-45(6315)
भरद्वाजोऽपि भगवानारुरोह दिवं तदा।
तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः॥ 1-140-46(6316)
वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः।
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः॥ 1-140-47(6317)
शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत।
अग्निहोत्रे च धर्मे च दमे च सतत रताम्॥ 1-140-48(6318)
अलभद्गौतमी पुत्रमश्वत्थामानमेव च।
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः॥ 1-140-49(6319)
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्।
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्॥ 1-140-50(6320)
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति।
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्॥ 1-140-51(6321)
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्।
स शुश्राव महात्मानं जामदग्न्यं परंतपम्॥ 1-140-52(6322)
सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्।
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः॥ 1-140-53(6323)
स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह।
श्रउत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च॥ 1-140-54(6324)
ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः।
वृतः प्रायान्महावाहुर्महेन्द्रं पर्वतोत्तमम्॥ 1-140-55(6325)
ततो महेन्द्रमासाद्य भारद्वाजो महातपाः।
क्षत्रघ्नं तममित्रघ्नमपश्यद्भृगुनन्दनम्॥ 1-140-56(6326)
ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम्।
आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले॥ 1-140-57(6327)
निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्।
ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा॥ 1-140-58(6328)
जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्।
भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम्॥ 1-140-59(6329)
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम।
तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः॥ 1-140-60(6330)
स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे।
एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः॥ 1-140-61(6331)
रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु।
अहं धनमनन्तं हि प्रार्थये विपुलव्रत॥ 1-140-62(6332)
राम उवाच। 1-140-63x(827)
हिरण्यं मम यच्चान्यद्वसु किंचिदिह स्थितम्।
ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन॥ 1-140-63(6333)
तथैवेयं धरा देवी सागरान्ता सपत्तना।
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी॥ 1-140-64(6334)
शरीरमात्रमेवाद्य ममेदमवशेषितम्।
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च॥ 1-140-65(6335)
अस्त्राणि वा शरीरं वा ब्रह्मञ्शस्त्राणि वा पुनः।
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्॥ 1-140-66(6336)
द्रोण उवाच। 1-140-67x(828)
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव।
स प्रयोगरहस्यानि दातुमर्हस्यशेषतः॥ 1-140-67(6337)
`एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम।'
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः।
सरहस्यव्रतं चैव धनुर्वेदमशेषतः॥ 1-140-68(6338)
प्रतिगृह्य तु तत्सर्वं कृतास्त्रे द्विजसत्तमः।
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति॥ ॥ 1-140-69(6339)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चत्वारिंशदधिकशततमोऽध्यायः॥ 140 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-140-2 गौतमो गौत्रतः॥ 1-140-10 समर्थनात्सामर्थ्यात्॥ 1-140-18 प्रातिपेयः प्रतीपपुत्रः॥ 1-140-19 संवर्धिताविति आलोच्येति शेषः॥ 1-140-25 विनयेप्सया शिक्षेच्छया॥ 1-140-27 अदेवसत्वः नास्ति देवस्येव सत्वं सामर्थ्यं यस्य सः॥ 1-140-38 द्रोणे द्रोण कलशाख्ये यज्ञियपात्रविशेषे॥ 1-140-50 स्थामशब्दः सकारस्य तत्कारादेशेऽश्वत्थामेति॥ चत्वारिंशदधिकशततमोऽध्यायः॥ 140 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|